|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.166. अध्यायः 166
Mahabharata - Adi Parva - Chapter Topics
कुन्तीहिडिम्बासंवादः॥ 1 ॥
हिडिम्बावार्तया भीमं हिडिम्बेन युद्ध्यमानं ज्ञातवतां कुन्त्यादीनां तत्र गमनम्॥ 2 ॥
हिडिम्बवधः॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-166-0x(970)(7577)
प्रबुद्धास्ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम्।
विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह॥ 1-166-1(7578)
ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसंपदा।
उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शैनः॥ 1-166-2(7579)
कस्य त्वं सुरगर्भाभे कावाऽसि वरवर्णिनि।
केन कार्येण संप्राप्ता कुतश्चागमनं तव॥ 1-166-3(7580)
यदि वाऽस्य वनस्य त्वं देवता यदि वाऽप्सराः।
आचक्ष्व मम तत्सर्वं किमर्थं चेह तिष्ठसि॥ 1-166-4(7581)
हिडिम्बोवाच। 1-166-5x(971)
यदेतत्पश्यसि वनं नीलमेघनिं महत्।
निवासो राक्षसस्यैष हिडिम्बस्य ममैव च॥ 1-166-5(7582)
तस्य मां राक्षसेन्द्रस्य भगिनीं विद्दि भामिनि।
भ्रात्रा संप्रेषितामार्ये त्वां सपुत्रां जिघांसता॥ 1-166-6(7583)
क्रूरबुद्धेरहं तस्य वचनादागता त्विह।
अद्राक्षं नवहेमाभं तव पुत्रं महाबलम्॥ 1-166-7(7584)
ततोऽहं सर्वभूतानां भावे विचरता शुभे।
चोदिता तव पुत्रार्थं मन्मथेन वशानुगा॥ 1-166-8(7585)
ततो वृतो मया भर्ता तव पुत्रो महाबलः।
अपनेतुं च यतितो न चैव शकितो मया॥ 1-166-9(7586)
चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः।
स्वयमेवागतो हन्तुमिमान्सर्वांस्तवात्मजान्॥ 1-166-10(7587)
स तेन मम कान्तेन तव पुत्रेण धीमता।
बलादितो विनिष्पिष्य व्यपनीतो महात्मना॥ 1-166-11(7588)
विकर्षन्तौ महावेगौ गर्जमानौ परस्परम्।
पश्यैवं युधि विक्रान्तावेतौ च नरराक्षसौ॥ 1-166-12(7589)
वैशम्पायन उवाच। 1-166-13x(972)
तस्याः श्रुत्वैव वचनमुत्पपात युधिष्ठिरः।
अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान्॥ 1-166-13(7590)
तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम्।
काङ्क्षमाणौ जयं चैव सिंहाविव बलोत्कटौ॥ 1-166-14(7591)
अथान्योन्यं समाश्लिष्य विकर्षन्तौ पुनःपुनः।
दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः॥ 1-166-15(7592)
वसुधारेणुसंवीतौ वसुधाधरसन्निभौ।
बभ्राजतुर्यथा शैलौ नीहारेणाभिसंवृतौ॥ 1-166-16(7593)
राक्षसेन तदा भीमं क्लिश्यमानं निरीक्ष्य च।
उवाचेदं वचः पार्थः प्रहसञ्छनकैरिव॥ 1-166-17(7594)
भीम माभैर्महाबाहो न त्वां बुध्यामहे वयम्।
समेतं भीमरूपेण रक्षसा श्रमकर्शिताः॥ 1-166-18(7595)
साहाय्येऽस्मि स्थितः पार्थ पातयिष्यामि राक्षसम्।
नकुलः सहदेवश्च मातरं गोपयिष्यतः॥ 1-166-19(7596)
भीम उवाच। 1-166-20x(973)
उदासीनो निरीक्षस्व न कार्यः संभ्रमस्त्वया।
न जात्वयं पुनर्जीवेन्मद्बाह्वन्तरमागतः॥ 1-166-20(7597)
`भुजयोरन्तरं प्राप्तो भीमसेनस्य राक्षसः।
अमृत्वा पार्थवीर्येण मृतो मा भूदिति ध्वनिः॥ 1-166-21(7598)
अयमस्मांस्तु नो हन्याज्जातु पार्थ राक्षसः।
जीवन्तं न प्रमोक्ष्यामि मा भैषीर्भरतर्षभ॥' 1-166-22(7599)
अर्जुन उवाच। 1-166-23x(974)
`पूर्वरात्रे प्रयुक्तोऽसि भीम क्रूरेण रक्षसा।
क्षपा व्युष्टा न चेदानीं समाप्तोसीन्महारणः॥' 1-166-23(7600)
किमेनन चिरं भीम जीवता पापरक्षसा।
गन्तव्ये न चिरं स्थातुमिह शक्यमरिन्दम॥ 1-166-24(7601)
पुरा संरज्यते प्राची पुरा सन्ध्या प्रवर्तते।
रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्त्युत॥ 1-166-25(7602)
त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम्।
पुरा विकुरुते मायां भुजयोः सारमर्पय॥ 1-166-26(7603)
`माहात्म्यमात्मनो वेत्थ नराणां हितकाम्यया।
रक्षो जहि यथा शक्रः पुरा वृत्रं महाबलम्॥ 1-166-27(7604)
अथवा मन्यसे भारं त्वमिमं राक्षसं युधि।
आतिष्ठे तव साहाय्यं शीघ्रमेव तु हन्यताम्॥ 1-166-28(7605)
अथवा त्वहमेवैनं हनिष्यामि वृकोदर।
कृतकर्मा परिश्रान्तः साधु तावदुपारम॥' 1-166-29(7606)
वैशम्पायन उवाच। 1-166-30x(975)
अर्जुनेनैवमुक्तस्तु भीमो रोषाज्ज्वलन्निव।
बलमाहारयामास यद्वायोर्जगतः क्षये॥ 1-166-30(7607)
ततस्तस्याम्बुदाभस्य भीमो रोषात्तु रक्षसः।
अत्क्षिप्याभ्रामयद्देहं तूर्णं शतगुणं तदा॥ 1-166-31(7608)
`इति चोवाच संक्रुद्धो भ्रामयन्राक्षसीं तनुम्।
भीमसेनो महाबाहुरभिगर्जन्मुहुर्मुहुः॥' 1-166-32(7609)
भीम उवाच। 1-166-33x(976)
नरमांसैर्वृथा पुष्टो वृथा वृद्धो वृथामतिः।
वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि॥ 1-166-33(7610)
क्षेममद्य करिष्यामि यथा वनमकण्टकम्।
न पुनर्मानुषान्हत्वा भक्षयिष्यसि राक्षस॥ 1-166-34(7611)
वैशम्पायन उवाच। 1-166-35x(977)
इत्युक्त्वा भीमसेनस्तं निष्पिष्य धरणीतले।
बाहुभ्यामवपीड्याशु पशुमारममारयत्॥ 1-166-35(7612)
स मार्यमाणो भीमेन ननाद विपुलं स्वनम्।
पूरयंस्तद्वनं सर्वं जलार्द्रे इव दुन्दुभिः॥ 1-166-36(7613)
बाहुभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः।
`समुद्धाम्य शिरश्चास्य सग्रीवं तदपाहरत्॥ 1-166-37(7614)
ततो भित्त्वा शिरश्चास्य सग्रीवं तदुदाक्षिपत्।
तस्य निष्कर्णनयनं निर्जिह्वं रुधिरोक्षितम्॥ 1-166-38(7615)
प्राविद्धं भीमसेनेन शिरो विदशनं बभौ।
प्रसारितभुजोद्धृष्टो भिन्नमांसत्वगन्तरः॥ 1-166-39(7616)
कबन्धभूतस्तत्रासीद्दनुर्वज्रहतो तथा।
हिडिम्बं निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः॥ 1-166-40(7617)
हिडिम्बा सा च संप्रेक्ष्य निहतं राक्षसं रणे।
अदृश्याश्चैव ये स्वस्स्थाः समेताः सर्षिचारणाः॥ 1-166-41(7618)
पूजयन्ति स्म तं हृष्टाः साधुसाध्विति पाण्डवम्।
भ्रातरश्चापि संहृष्टा युधिष्ठिरपुरोगमाः॥ 1-166-42(7619)
अपूजयन्नरव्याघ्रं भीमसेनमरिन्दमम्।'
अभिपूज्य महात्मानं भीमं भीमपराक्रमम्।
पुनरेवार्जुनो वाक्यमुवाचेदं वृकोदरम्॥ 1-166-43(7620)
अदूरे नगरं मन्ये वनादस्मादहं विभो।
शीघ्रं गच्छाम भद्रं ते न नो विद्यात्सुयोधनः॥ 1-166-44(7621)
ततः सर्वे तथेत्युक्त्वा मात्रा सह महारथाः।
प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी॥ ॥ 1-166-45(7622)
इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वमि षट्षष्ट्यधिकशततमोऽध्यायः॥ 166 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-166-8 भावे चित्ते॥ 1-166-11 व्यपनीतो दूरे नीतः॥ 1-166-21 इतिध्वनिर्माभूदिति संबन्धः॥ 1-166-24 गन्तव्ये सति चिरं स्थातुं न शक्यम्॥ 1-166-28 अथवेति द्वयं प्रोत्साहनार्थं॥ 1-166-33 वृथामरणं स्वर्गाद्यप्रयोजकं मरणम्॥ षट्षष्ट्यधिकशततमोऽध्यायः॥ 166 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|